कूपयन्त्रघटीन्यायः

विकिसूक्तिः तः

कूपात् जलम् उद्धर्तुम् उपयुज्यमानं कूपयन्त्रं घटीभिः सहितं भवति । यदा चक्रं भ्रमति तदा एका घटी जलेन पूर्णा भूत्वा उपरि आगच्छति अपरा च घटी जले मग्ना भवति । पुनः घटी रिक्ता भूत्वा पुनः जले मग्ना भवति । अनया रीत्या अधस्तनाः घटाः उपरि आगच्छन्ति उपरितनाश्च अधोगच्छन्ति । तथैव अस्माकं जीवने कानिचन दिनानि अनुकूलानि भवन्ति कानिचन च प्रतिकूलानि । एवं जीवनस्य रीतिं कथयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

यथा - कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं

कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् ।

अन्योन्यं प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्

क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ मृच्छकटिके १०-५९

"https://sa.wikiquote.org/w/index.php?title=कूपयन्त्रघटीन्यायः&oldid=9456" इत्यस्माद् प्रतिप्राप्तम्