कृतक्षौरनक्षत्रपरीक्षान्यायः

विकिसूक्तिः तः

क्षौरात् पूर्वं शुभनक्षत्रं द्रष्टव्यमिति पूर्वं काचन रीतिः आसीत् । संप्रति यज्ञोपवीतधारणे शुभनक्षत्रं पश्यन्ति जनाः । परन्तु शुभनक्षत्रस्य परीक्षा क्षौरात् पूर्वमेव करणीया क्षौरात् अनन्तरं न । एवं क्षौरकर्मणः अनन्तरं नक्षत्रपरीक्षा कृता चेत् सा निरर्था भवति । एवं विवाहात् पूर्वमेव वरस्य गुणदोषाणां विवेचनं करणीयं भवति, विवाहानन्तरं तादृशं विवेचनं व्यर्थमेव । पश्यन्तु – मुण्डितशिरोनक्षत्रान्वेषणेन कृते कार्ये किं मुहूर्तप्रश्नेन । न हि विवाहानन्तरं वरपरीक्षा ।