कृत्वा नवदृढसङ्कल्पम्...
दिखावट
कृत्वा नवदृढसङ्कल्पम्...
कृत्वा नवदृढसङ्कल्पम्
वितरन्तो नवसन्देशम्
घटयामो नव सङ्घटनम्
रचयामो नवमितिहासम् ॥
नवमन्वन्तरशिल्पिणः
राष्ट्रसमुन्नतिकाङ्क्षिणः
त्यागधना: कार्यैकरताः
कृतिनिपुणा: वयमविषण्णाः ॥१॥
भेदभावनां निरासयन्तः
दीनदरिद्रान् समुद्धरन्तः
दु:खवितप्तान् समाश्वसन्तः
कृतसङ्कल्पान् सदा स्मरन्तः ॥२॥
प्रगतिपथान्नहि विचलेम
परम्परां संरक्षेम
समोत्साहिनो निरुद्वेगिनो
नित्यनिरन्तरगतिशीलाः ॥३॥
- श्री जनार्दन हेगडे