कृष्णमुखी न मार्जारी...

विकिसूक्तिः तः

कृष्णमुखी न मार्जारी
द्विजिह्वा न च सर्पिणी ।
पञ्चभर्त्री न पाञ्चाली
यो जानाति स पण्डितः॥

एषा अस्ति कृष्णमुखी, किन्तु मार्जारी न । अस्याः जिह्वाद्वयं वर्तते, किन्तु सर्पिणी न । अस्याः पञ्च पतयः सन्ति, किन्तु पाञ्चाली न । यः उत्तरं जानीयात् सः पण्डितः ।

उत्तरम्

लेखनी
"https://sa.wikiquote.org/w/index.php?title=कृष्णमुखी_न_मार्जारी...&oldid=6359" इत्यस्माद् प्रतिप्राप्तम्