केशवं पतितं दृष्ट्वा...

विकिसूक्तिः तः

केशवं पतितं दृष्ट्वा
पाण्डवा हर्षनिर्भराः ।
रुदन्ति कौरवाः सर्वे
हा हा केशव केशव ॥

केशवः पतिवान् इति पाण्डवाः हृष्टाः अभवन् । कौरवाः हा केशव इति रुदन्ति ।

उत्तरम्

कम् इत्युक्ते जलम् । के जले शवं पतितं दृष्ट्वा पाण्डवाः तन्नाम बकाः हृष्टाः अभवन् । कौ इति रवः येषां ते कौरवाः काकाः । ते के शव के शव इति रुदन्ति ।
"https://sa.wikiquote.org/w/index.php?title=केशवं_पतितं_दृष्ट्वा...&oldid=17581" इत्यस्माद् प्रतिप्राप्तम्