कैमुतिकन्यायः
दिखावट
‘किमुत’ इति अस्य अव्ययस्य “किं वक्तव्यं” “अधिकमभवत्” इत्याद्यर्थेषु प्रयोगो भवति । महतामेव जनानां यत्र प्रभावो न भवति तत्र अल्पवीर्याणां कोऽपि प्रभावो न भवतीति किं वक्तव्यम् ? इति सूचयितुम् अस्य न्यायस्य प्रयोगो भवति । अलङ्कारशास्त्रे अस्यैव काव्यार्थापत्तिरिति व्यपदेशः ।
यथा- कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते ।
स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् ॥
रघुवंशमहाकाव्ये द्वितीयसर्गे सिंहः राजानम् वदति- परमर्षाणां प्रभावेण यमोऽपि मयि प्रहारं कर्तुं न प्रभवति किमुत अन्यहिंस्राः ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तु किमुतान्यहिंस्राः ॥ (रघुवंशे २-४०)