कौन्तेयराधेयन्यायः

विकिसूक्तिः तः

कर्णः कुन्त्याः पुत्रः आसीत् परन्तु सः तत् न जानाति स्म । अतः स्वस्य पालयित्र्याः राधायाः पुत्रः अस्मीति सः मन्यते स्म । परन्तु यदा सः सत्यं ज्ञातवान् तदा सः कौन्तेयः अभवत् । तथैव शरीरमेव आत्मा इति आरम्भे भावना भवति अग्रे गुरुपदेशेन शरीरात् आत्मा भिन्न इति पृथकत्वज्ञानं भवति इति सूचयितुम् अस्य न्यायस्य प्रयोगः क्रियते ।

समानौ – कर्णाकौन्तेयन्यायः, राजपुत्रव्याधन्यायः

"https://sa.wikiquote.org/w/index.php?title=कौन्तेयराधेयन्यायः&oldid=9563" इत्यस्माद् प्रतिप्राप्तम्