क्रियाद्वयर्थकरीन्यायः
दिखावट
यदा महापुरुषः किञ्चन कार्यं करोति तस्य कार्यस्य अपराणि प्रयोजनानि च भवन्ति । तस्य पुरुषस्य शुभकर्मफलरुपेण तस्य मोक्षः भवत्येव परं तेन सह तस्य कर्मणः फलं समाजेऽपि दृश्यते ।
यथा –मुमुक्षुणा श्रोत्रियेण क्रियमाणं कर्म सत्त्वशुद्धिद्वारा स्वस्य मोक्षहेतुर्भवति वृष्ट्यादिद्वारा जगत्स्थितिहेतुश्च भवति । अत उभयथाऽपि कर्म कर्तव्यमिति ॥ (लै.न्या. सा. ५२९)
(महाभाष्यगतमेकं वाक्यम् अमुमेव न्यायं सूचयति – आम्राश्च सिक्ताः पितरश्च तृप्ताः एका क्रिया द्वयर्थकरीति । अर्थात् जलदानरुपेण एकेन कर्मणा आम्रवृक्षस्य सेको भवति पितृतर्पणमपि कृतमिव भवति इति एकैव क्रिया प्रयोजनद्वयं संपादयति । एवं एकस्याः क्रियायाः प्रयोजनद्वयं भवतीति अनेन न्यायेन सूच्यते )