क्षणशः कणशश्चैव...

विकिसूक्तिः तः

सुभाषितम्

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् ।
क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम् ॥

kṣaṇaśaḥ kaṇaśaścaiva vidyāmarthaṃ ca sādhayet ।
kṣaṇe naṣṭe kuto vidyā kaṇe naṣṭe kuto dhanam ॥

पदच्छेदः

क्षणशः, कणशः, च, एव, विद्याम्, अर्थम्, च, साधयेत्, क्षणे, नष्टे, कुतः, विद्या, कणे, नष्टे, कुतः, धनम् ।


तात्पर्यम्

प्रतिक्षणं विद्या अर्जनीया । प्रतिकणमपि धनं सङ्ग्रहणीयम् । एकं क्षणं व्यर्थं भवति चेदपि तावता प्रमाणेन विद्या न्यूना जाता इत्येव । कणमेकं न्यूनं भवति चेदपि तावत् धनं न्यूनम् इत्येव ।


आङ्ग्लार्थः

Knowledge should be gained through minute by minute efforts. Money should be earned utilizing each and every resource. If you waste time, how can you get knowledge? If you waste resources, how can you accumulate the wealth?

"https://sa.wikiquote.org/w/index.php?title=क्षणशः_कणशश्चैव...&oldid=17313" इत्यस्माद् प्रतिप्राप्तम्