क्षतमक्षिकान्यायः

विकिसूक्तिः तः

यदा शरीरं व्रणितं भवति तदा तस्य व्रणितस्य भागस्य स्थले रक्तमांसादिकं बहिः दृश्यते । वेदना भवति । परन्तु तस्य मनुष्यस्य वेदनामपि अगणयित्वा मक्षिकाः तस्य व्रणस्य उपरि तिष्ठन्ति तस्य वेदनां वर्धयन्ति च । एषा वृत्तिः नीचानामेव भवति । अपरस्य दुःखम् अगणयित्वा तस्य दुःखं वर्धयन्त्येव नीचाः । एवं नीचस्वभावानां छिद्रान्वेषिणां प्रवृत्तिं बोधयितुमस्य न्यायस्य प्रयोगो भवति । (सा. ७५२)

"https://sa.wikiquote.org/w/index.php?title=क्षतमक्षिकान्यायः&oldid=9567" इत्यस्माद् प्रतिप्राप्तम्