क्षरं प्रधानम्...

विकिसूक्तिः तः

क्षरं प्रधानम् अमृताक्षरं हरः
क्षरात्मानौ ईशते देव एकः ।
तस्याभिध्यानात् योजनात् तत्त्वभावात्
भूयश्चान्ते विश्वमायानिवृत्तिः ॥ - श्वेताश्वतरोपनिषत् १-१०

प्रधानं क्षरम्, हरस्तु अमृतः अक्षरश्च । परमात्मा एक
एव क्षरं प्रधानम्, जीवात्मानं च ईशते । तस्य परमात्मनः
अभिध्यानात्, तस्य योगात्, तस्य ज्ञानात्, अन्ते मायायाः निवृत्तिर्भवति ॥

कापिलसाङ्ख्यदर्शने प्रतिपादितं परमं तत्त्वं नाम प्रधानम् ।
इदमेव मूलप्रकृतिः इत्यपि कथ्यते । वेदान्तदर्शनानुसारेण
इदं प्रधानम् अचेतनम्, क्षरम्, अनित्यं च । जीवात्मा
संसारी सन् सुखदुःखानि अनुभवति । साङ्ख्याः जीवान्
अनेकान् मन्यन्ते ॥

वेदान्तेशु प्रधानं जीवाश्च अनात्मभूता एव । एतयोः द्वयोरपि
ईशिता ईश्वरः । एष एव मुमुक्षुभिः ध्येयः । एष एव विचारार्हः;
अस्य मननेन जीवोऽपि ईश्वर एव भवति । ईश्वरात्मैक्यज्ञानेन
माया नश्यति । तदा जीवात्मा मुक्तो भवति ॥

"https://sa.wikiquote.org/w/index.php?title=क्षरं_प्रधानम्...&oldid=16609" इत्यस्माद् प्रतिप्राप्तम्