क्षितिस्थितिमितिक्षिप्ति...

विकिसूक्तिः तः

क्षितिस्थितिमितिक्षिप्तिविधिविन्निधिसिद्धिलिट् ।
मम त्र्यक्ष नमद्दक्ष हर स्मरहर स्मर ॥


वैशिष्ट्यम् – अस्मिन् श्लोके प्रथमपङ्क्तौ ”’इ”’ इत्येषः स्वरः,
द्वितीयपङ्क्तौ ’अ’ इत्येषः स्वरः एव उपयुक्तः अस्ति ।

अर्थः – हे भगवन् ईश्वर, त्रिणेत्रधारि, स्वरूपज्ञ, क्षितिमापक,
क्षितिनाशक, अष्टगुणितायाः अतिमानवशक्तेः कुबेरस्य नवविधसम्पत्तेश्च
अनुभोक्ता, दक्षकामदेवयोः विध्वंसक, हे देव, मां स्मरतु ।