क्षीरदग्धजिह्वान्यायः
Jump to navigation
Jump to search
अत्युष्णं दुग्धं पिबति चेत् मनुष्यस्य जिह्वा दग्धा भवति तेन सः एवं भीतो भवति यत् दुग्धसादृश्येन तक्रात् अपि बिभेति दुग्धेन जिह्वा दग्धा इति कारणेन तक्रमपि फूत्कृत्य पिबति । एवं एकेन सङ्कटेन पीडितः मनुष्यः सर्वेष्वपि संदर्भेषु अनावश्यकरीत्या सावधानतां दर्शयति इति अनेन न्यायेन सूच्यते ।