क्षीरनीरन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

क्षीरं नीरञ्च परस्परमेव सुयुक्ते भवतः यत् एकस्मात् अपरं पृथक् कर्तुं न शक्यते । एवं ययोः द्वयोः मध्ये एकरुपता वा अविछेद्यसंबन्धो वा भवेत् तर्हि क्षीरनीरे इव तौ संयुक्तौ इति कथ्यते । नीरक्षीरन्यायोऽपि एतदर्थकः ।

अलङ्कारशास्त्रे संकरनामकस्य अलङ्कारस्य स्पष्टीकरणार्थम् अस्य न्यायस्य प्रयोगः क्रियते । यथा नीरं क्षीरञ्च परस्परम् अतीव एकरुपतां प्राप्ते तथा अलङ्कारद्वयमपि परस्परं संमिश्रितं चेत् संकरालङ्कारो भवति । एवं समवायसंबन्धेन अलङ्कारद्वयस्य मिश्रणं सङ्कर इति,पृथक्करणयोग्यरुपेण मिश्रणं संसृष्टिः इति च अलङ्कारशास्त्रे कथ्यते ।

यथा हंसः नीरमिश्रितात् दुग्धात् नीरं पृथक् कृत्य क्षीरमेव स्वीकरोति तथा जीवने दुः खसंमिश्रितात् सुखात् दुःखं पृथक्कृत्य हितकारकमेव मनुजः गृहणीयात् इति अनेन न्यायेन सूच्यते ।

केचन आलङ्कारिकाः अत्र नरसिंहन्यायस्य उल्लेखं कुर्वन्ति । क्षीरोदसंपृक्तन्यायस्यापि अयमेव अर्थः । व्याकरणशास्त्रानुसारं प्रकृतिप्रत्यययोः मिश्रणं संकर एव ।

यथा –हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ अभिज्ञानशाकुन्तले ६-२८

"https://sa.wikiquote.org/w/index.php?title=क्षीरनीरन्यायः&oldid=9575" इत्यस्माद् पुनः प्राप्तिः