खरीपाषाणन्यायः

विकिसूक्तिः तः

खरी नाम पाषाणस्य काष्ठस्य वा पात्रम् । अयं न्याय्ः काञ्चन कथाम् आश्रित्य प्रवर्तितः । पुरा एकः गोपालकः एकस्य काष्ठदण्डस्य पार्श्वद्वये अपि दुग्धपूर्ण पात्रद्वयं बद्ध्वा ग्रामे दुग्धस्य विक्रयणं करोति स्म । यदा एकं दुग्धपात्रं रिक्तं जातं तदा सः एकपार्श्वे भारम् अनुभूय पार्श्वद्वये अपि समानः भारः भवतु इति रिक्तपात्रे एकं पाषाणखण्डं स्थापयित्वा नयति स्म । जनाः यदा कारणं पृष्टवन्तः तदा तेन उक्तम् पार्श्वद्वयेऽपि समानः भारः भवतु इति मया एवं क्रियते । अनेन मम भारवहनसामर्थ्यमपि वर्धते इति ।

एवं यस्य कस्यापि जीवने प्राप्तस्य दुर्भाग्यस्य समर्थनं सः करोति चेत् तं संदर्भं वर्णयितुम् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=खरीपाषाणन्यायः&oldid=9695" इत्यस्माद् प्रतिप्राप्तम्