खलास्तु दूरतस्त्याज्याः...

विकिसूक्तिः तः

सुभाषितम्

खलास्तु दूरतस्त्याज्याः कण्टका इव सर्वथा ।
येषां क्षणिकयोगेन सन्मर्गोऽप्यतिदु:खदः ॥




तात्पर्यम्

दुष्टाः दूरात् एव परित्यक्तव्याः यतः ते सन्ति कण्टकाः इव । कण्टकाः यथा दुःखं यच्छन्ति तथैव दुष्टाः क्षणं यावत् सम्पर्के भवन्ति चेदपि दुःखं यच्छन्ति ।