खल्वाटबिल्वीयन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

कश्चन खल्वाटः सूर्यस्य तापेन तप्तः छायार्थम् एकस्य बिल्ववृक्षस्य अधः स्थितः । तदा एकं पक्वं बिल्वफलं वृन्ताद् वियुक्तं भूत्वा तस्य शिरसि पतितम् । अस्य कोऽर्थः ? दुर्दैवग्रस्तः मनुष्यः यत्र कुत्रापि गच्छेत् तस्य सङ्कटेभ्यः मोक्षः न स्यादेव । दुर्दैवं पृष्ठतः तम् अनुसरत्येव । अस्य वर्णनं सुभाषितेन एकेन कृतमस्ति –

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके

वाञ्छन् देशमनातपं विधिवशात् तालस्य मूलंगतः ।

तत्राप्यस्य महाफलेन पतता भग्नं स शब्दं शिरः

प्रायो गच्छति यत्र भाग्यरहितस्तत्रैवयान्त्यापदः ॥ भर्तृहरिनीतिशतकम् ९१

"https://sa.wikiquote.org/w/index.php?title=खल्वाटबिल्वीयन्यायः&oldid=9698" इत्यस्माद् पुनः प्राप्तिः