गङ्गा पापं शशी तापं...

विकिसूक्तिः तः

सुभाषितम्

गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥ सु.भा. - सज्जनप्रशंसा (४७/६)




तात्पर्यम्

गङ्गानद्यां यः स्नानं करोति तस्य पापपरिहारः भवति । गङ्गा तस्य पापं नाशयति । तथैव चन्द्रः अस्माकं तापं परिहृत्य शैत्यम् उत्पादयति । एवमेव कल्पवृक्षः अस्माभिः याचितान् सर्वान् अभिलाषान् पूरयति । एतत् जगति प्रसिद्धमेव । किन्तु गङ्गायाः, चन्द्रस्य, कल्पवृक्षस्य च एकस्मिन् एव विषये सामर्थ्यम् अस्ति । सज्जनाः महापुरुषाः तु न तथा । तेषां सहवासेन अस्माकं पापं, तापः, दैन्यं - सर्वमपि परिहृतं भवति । तादृशं सामर्थ्यं तेषु अस्ति ।

"https://sa.wikiquote.org/w/index.php?title=गङ्गा_पापं_शशी_तापं...&oldid=14907" इत्यस्माद् प्रतिप्राप्तम्