गजनिमीलनन्यायः

विकिसूक्तिः तः

पुरतो विद्यमानं वस्तु न द्रष्टव्यं चेत् गजः चक्षुषी निमीलयति एवं चक्षुर्निमीलनं नाम दुर्लक्ष्यीकरणम् । तथा अदर्शनस्य अभिनयोऽपि अनेन लक्षितो भवति ।

यथा –देवीः कामयमानस्य चक्रे गजनिमीलिकाम् । राजतरङ्गिणी ६-७२१ (देवीनां कामुकस्य विषये सः उपेक्षां दर्शितवान्)ध्वन्यालोकः पृष्ठं २०४ .

"https://sa.wikiquote.org/w/index.php?title=गजनिमीलनन्यायः&oldid=9754" इत्यस्माद् प्रतिप्राप्तम्