गते शोकं न कुर्वीत...

विकिसूक्तिः तः

सुभाषितम्

गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् ।
वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः ॥




तात्पर्यम्

गतस्य विषये दुःखं न करणीयम् । भविष्यतः विषये कदापि चिन्ता न कर्तव्यम् । विचारशीलाः प्रस्तुतविषयमात्रे एव तत्पराः भवन्ति ।

"https://sa.wikiquote.org/w/index.php?title=गते_शोकं_न_कुर्वीत...&oldid=14909" इत्यस्माद् प्रतिप्राप्तम्