गद्यकाव्यसूक्तयः (कर्म)

विकिसूक्तिः तः

<poem>

१.     अनेकविधाः कर्मणां शक्तयः  । - कादम्बरी, पूर्वभागः

२ . आत्मकृतानां हि दोषाणां नियतमनुभवितव्यं फलमात्मनैव । - कादम्बरी, पूर्वभागः पृष्ठम्, ४११

३. इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते । - दशकुमारचरितम्-उत्तरपीठिका, उच्छ्वासः

४. इह किल कर्मणामविच्छेदेन प्रतीयमाने संसारे जीवानां सुखदुःखान्यतरभोगाय

तदनुरूपशरीरपरिग्रहः फलति । - मन्दारमञ्जरी-पूर्वभागः

५. का नाम तत्र चिन्ता प्रभवति पुरुषस्य पौरुषं ।

वाङ्मनसयोरविषये विधौ च चिन्तान्तरं किमिह ॥ - नलचम्पू ७/७

६. कर्तव्यं नाम यो यथाऽवबुध्यति । - विसर्ग: पृ ० २०

७. कर्ममात्रं सुफलाकाङ्क्षा ।

फलमात्रं च मोहस्य उग्रभूमिः ।
साफल्यमात्रम् अन्धाहङ्कारः । - विसर्ग: पृ ० ३३

८. जन्मान्तरकृतं हि कर्म फलमपनयति पुरुषस्येह जन्मनि । - कादम्बरी - पूर्वभागः

९. दुरुत्खेयः परिणामः संस्काराणाम् । - सिन्धुकन्या-परि ० ६ पृष्ठम् १४३

१०. न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किञ्चित् । - कादम्बरी-उत्तरभागः

११. मनुष्यभिन्नाः सर्वॆ प्राणीनः पूर्वॊपार्जितकर्मसन्तानोपनीतसुखाद्यनुभवमात्र-

व्यापरिणोऽनन्तर-कर्मोत्पत्तिप्रबन्धविकलाश्च सन्ति । - मन्दारमञ्जरी-पूर्वभागः

१२. मनुष्याणां तु प्राग्भावीयकर्मभोगो विधिनिषेधाधिकारश्च । - मन्दारमञ्जरी-पूर्वभागः पृ० ८०

१३. यथा यथाधिकायासः पुण्यवृद्धिस्तथा तथा । - कथामुक्तावली कथा-६

१४. विचित्र एव प्रतिभाति कर्मविपाकः । राङ्गडा-३

१५. श्रेयांसि सकलान्यलसानां हस्ते नित्यसांनिध्यानि । - दशकुमारचरितम्, उ० पी० उ०७

१६. स्वयमनुष्ठितो हि उद्यमो यथा प्राणान्तिकेष्वपि सङ्कटेषूपकरोति न तथा परापेक्षः । - सिन्धुकन्या परि ०२पृ०२५