गद्यकाव्यसूक्तयः (गुणगरिमा)

विकिसूक्तिः तः

<poem>

१ . गर्भॆश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वममानुषशक्तित्वं चेति महतीयं

खल्वनर्थपरम्परा । - कादम्बरी पूर्वभागः

२ . जानन्ति हि गुणान् वक्तुं तद्विधा एव तादृशाम् । - नलचम्पू १/१८

३ . ददात्येव हृदयेऽवकाशमत्युदारता । - कादम्बरी उत्तरभागः

४. न हि परात्मसमवायिनो गुणाः परसमवेतप्रत्यक्षेण गोचरीक्रियन्ते । - मन्दारमञ्जरी-पूर्वभागः

५. प्रथितगुणस्थानस्थितस्यासतोऽपि हि माहात्म्यमाविर्भवति । - तिलकमञ्जरी पृ० २१३

६. शीलं हि मदोन्मादयोरमार्गेणाप्युचितकर्मस्वेव प्रवर्तनम् । - दशकुमारचरितम् उ०पी०उ०२