गद्यकाव्यसूक्तयः (तपः)

विकिसूक्तिः तः

<poem> १. आश्चर्यातिशययुक्ताश्च तपः सिद्धयः । - कादम्बरी पूर्वभागः

२ . जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय

शोभते परत्र सम्बन्धी तपश्चरणपरिक्लेशः किं पुनराकृतिमतो जनस्य । - कादम्बरी उत्तरभागः

३ . तपसो हि सम्यक् कृतस्य नास्त्यसाध्यं नाम किञ्चित् । - कादम्बरी उत्तरभागः

४. नास्ति खल्वसाध्यं नाम तपसाम् । - कादम्बरी पूर्वभागः

५. शरणागतपरित्राणं हि तपस्विनामपि धर्म एव । - कादम्बरी उत्तरभागः

६. तपः कदापि समृद्धिशालिभिः न साध्यम् । - द्वासुपर्णा पूर्वभागः

"https://sa.wikiquote.org/w/index.php?title=गद्यकाव्यसूक्तयः_(तपः)&oldid=8079" इत्यस्माद् प्रतिप्राप्तम्