गद्यकाव्यसूक्तयः (दुर्जनचरितम्)

विकिसूक्तिः तः

<poem>

१ . अकारणाविष्कृतवैरदारुणादसज्जनात् कस्य भयं न जायते । - कादम्बरी स्लॊकः ५

२ . अकारणं च भवति दुष्प्रकृतेन्वयः श्रुतं चाविनयस्य । - कादम्बरी-पूर्वभागः

३ . अतिमलिने कर्तव्ये भवति खलानामतिनिपुणा धीः । - कादम्बरी पूर्वभागः

४. अनिष्टोद्भावनरसोत्तरं हि खलहृदयं को नामास्य तत्वविरूपणे समर्थः । - वासवदत्ता

५. अभिजादेव जायन्तेऽकाण्डादेव प्ररोहन्ति, खलव्यसनाङ्कुरा दुरुच्छेदा भवन्ति । - वासवदत्ता

६. असतां हृदि प्रविष्टो दोषलवः करालायते । - वासवदत्ता

७. असद्गुणाख्यापनं हि दोषाय । - शृङ्गारमञ्जरी कथापीतिका

८. अतिसन्धानपरायणाः शठाः । - राङ्गडा-कथा ४

९. अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथः । - हर्षचरितम् उच्छवास- ३

१० असन्तस्तु भीमस्वभावा अपि न धर्मोद्भवमपेक्षन्ते । - मन्दारमञ्जरी पूर्वभागः

११. उद्दामदर्पाश्च पृथुस्थगित-श्रवणविवराश्चोपदिश्यमानमपि न शृण्वन्ति । - कादम्बरी पूर्वभागः

१२. कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । - कादम्बरी श्लोकः ६

१३. केवलमध्याससम्बद्धः खलप्रपञ्चो न निरूपयितुं शक्यः । - मन्दारमञ्जरी

१४. किमिव हि दुष्करमकरुणानाम् । - कादम्बरी, कथामुखम्

१५. खलहृदयदर्पणतले मालिन्यं जायते विजातीयम् ।

गुणसङ्क्रमणविरुद्धं दोषोद्ग्राहानुकूलं च ॥ - मन्दारमञ्जरी-प्रस्तावना-पृ० २०

१६. खलाः पुनस्तदनिष्टमनुचितमेवावधारयन्ति । - वासवदत्ता पृ० ८१

१७. (खलः) तालफलरस इवापातमधुरः परिणामे विरसस्तिक्तश्च । - वासवदत्ता पृ० ८३

१८. दैवानुग्रहेण यदि कश्चिद् भाजनं भवति विभूतेस्तमकस्मादुच्चावचैरुपप्रलोभनैः

कदर्थयन्तः स्वार्थं साधयन्ति धूर्ताः । - दशकुमारचरितम्, उ०पि०उ०८

१९. नैसर्गिकी खलस्य ब्रह्मण इव दुर्गमात्मनो माया । - मन्दारमञ्जरी पूर्वभागः

२०. (खलः) पादपराग इवावधूतोऽपि मूर्द्धानं कषाययति । - वासवदत्ता पृ० ८४

२१. पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । - हर्षचरितम् उ०६

२२. पीड्यमाना धूर्तास्तथा किञ्चिदपकुर्वन्ति यथा वक्तुमपि न पार्यते । - शृङ्गारमञ्जरी-पृ० ७७

२३. विस्रब्धघातदोषः स्ववधाय खलस्य वीरकोपकरः । - हर्षचरितम् उ०६

२४. विध्वस्तंपरगुणानां भवति खलानामतीव मलिनत्वम् । - वासवदत्ता, प्रतावना पृ०९

२५. विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।

यदयं न कुलद्वेषी स कुलद्वेषी पुनः पिशुनः । - वासवदत्ता, श्लोक-६

२६. सत्पणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति । - हर्षचरितम् उ०३

२७. सुभाषितं हारि विशत्यधो गलान् न दुर्जनस्यार्करिपोरिवामृतम् । - कादम्बरी, श्लोकः-९

२८. हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम् दर्पणमिव

तं कुरुते तथा तथा निर्मलच्छायम् । - वासवदत्ता, श्लोकः-९

२९. (खलः) सर्षपस्नेह इव करयुगलालितोऽपि शिरसा धृतोऽपि न काटवं जहाति । - वासवदत्ता पृ० ८३