गद्यकाव्यसूक्तयः (धर्मः)

विकिसूक्तिः तः

<poem> १ . अमुष्यासारपरिकरस्य संसारस्य सारो धर्म एव ।

धर्मः च सारभूता प्राणिषु दया ।
दया दानस्य च सारमार्तपरित्राणं नाम । - उदयसुन्दरीकथा, उच्छ्वासः १

२ . तदनपेक्ष एव धर्मो निवृत्तिसुखप्रसूतिहेतुरात्मसमाधानमात्रसाध्यश्च । - दशकुमारचरितम्, उत्तरपीठिका उ०२

३ . धर्मपूते च मनसि नभसीव न जातु रजोऽनुरज्यते । - दशकुमारचरितम्, उत्तरपीठिका उ०२

४ . धर्मो हि सर्वथा रक्षणीयः ।

सतीत्वध्वंसनमन्दिरावपातादिरूपो घोरतरो दूराचारः सर्वथा प्रतिरोद्धव्यः ॥
आततायिनश्चावश्यमेव दण्डनीयाः । - शिवराजविजयम् २/६

५. धार्मिकजनानुवृत्त्यभिमुखानि हि भवन्ति सर्वदा धर्मतत्त्ववेदिनां हृदयानि । - तिलकमञ्जरी पृ० २५

६. ननु धर्मादृतेऽर्थकामयोरनुत्पत्तिरेव । - दशकुमारचरितम्, उत्तरपीठिका उ०२

७. न धर्मस्तत्त्वदर्शिनां विषयोपभोगेनोपरुध्यते । - दशकुमारचरितम्, उत्तरपीठिका उ०२

८. मूढः खलु लोको यत् सह धर्मेणार्थकामावपि गणयति । - दशकुमारचरितम् उत्तरपीठिका उ०२

९. महान्तो हि धर्मस्य कृते लुण्ठ्यन्ते, पात्यन्ते हन्यन्ते, न धर्मं त्यजन्ति । - शिवराजविजयम्-१/२

१० . यदि सत्येन धर्मरक्षा न भवति, तत् किमसत्येन सम्बोभवीति ? - शिवराजविजयम्-३/९

११. स एव धर्मो यो न केवलं व्यक्तेः अपितु समष्टेरपि सन्धारणाय अभ्युदयाय

च सर्वान् प्राणिनः सर्वाणि भूतानि सर्वाश्च शक्तीः सञ्चारयति । - द्वासुपर्णा उ० भा०

१२. समन्तादार्तपरित्राणं नाम धर्मः सतां, विशेषतः क्षितिपालनेष्वधिकारिणां

क्षत्रियाणाम् । - उदयसुन्दरीकथा, उच्छ्वासः ५