गद्यकाव्यसूक्तयः (पशुपक्षिणः)

विकिसूक्तिः तः

<poem> १ . क्षुत्पिपासार्दितानां हि पशुपक्षिणां

निर्विचारचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न सम्भवत्येव । - कादम्बरी उत्तरभागः

२ . खेचरा हि बाहुल्येन सदाऽपि भ्रमन्तो वियति विदन्त्येव भूलोकविषयिणः

प्रदेशान् । - उदयसुन्दरीकथा उच्छ्वासः

३ . तिमिरे हि कौशिकानां रूपं प्रतिपद्यते चक्षुः । - वासवदत्ता

४ . प्रायेण हि पक्षिणः पशवश्च भयाहार-मैथुननिद्रासंज्ञामात्रवेदिनो भवन्ति । - कादम्बरी कथामुखम्