गद्यकाव्यसूक्तयः (यौवनम्)

विकिसूक्तिः तः

<poem>

१ . अनिज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । - कादम्बरी, पूर्वभागः

२ . अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया

यौवनसमये पुरुषं प्रकृतिः । - कादम्बरी, पूर्वभागः

३ . अपरिभवनीयो हि कुमारिकाजनो यूनाम् । - कादम्बरी, पूर्वभागः

४ . कान्तोपदेशास्तु सरसताप्रवृत्तत्वाद् ग्राह्यो भवति युवकानाम् । - द्वासुपर्णा-उत्तरभागः

५. जीवितं हि नाम जन्मवतां चतुः पञ्चाप्यहानि ।

तत्रापि भोगयोग्यमल्पाल्पं वयःखण्डम् ॥ - दशकुमारचरितम्, उत्तरपीठिका उ ०८

६. तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत् पश्यति । - कादम्बरी पूर्वभागः

७. नवयौवनकषायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि

मधुरतराण्यापतन्ति मनसः । - कादम्बरी पूर्वभागः

८. निपुणमदनगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्नकिञ्चिन्नालिखति । - कादम्बरी पूर्वभागः

९. निसर्गत एवाभानुभेद्यमरत्नालोकोच्छेद्यमप्रदीपप्रभावनेयमति गहनं तमो यौवनप्रभवम् । - कादम्बरी पूर्वभागः

१०. येन केनचिदपह्रियन्त एव रसिकहृदयाः परिणामधीरमतयोऽपि किं पुनः कुतूहलास्पदे प्रथमे वयसि वर्तमानः । - कादम्बरी उत्तरभागः

११. यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालनिर्मलापि कलुष्यमुपयाति बुद्धिः । - कादम्बरी पूर्वभागः

१२. यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । - कादम्बरी उत्तरभागः

१३. यौवनोदयो हि बहुरागपल्लवोऽशोकतरुरिव मलिनानि फलानि

पृसूते । - मन्दारमञ्जरी, पूर्वभागः पृ०१५५

१४. स्वप्नानुभूतभावा द्रढयति न प्रत्ययं युवतिः । - वासवदत्ता पृ० २०५

१५. स्नेहलवोऽपि वारिणेव यौवनमदेन दूरं विस्तीर्यते । - कादम्बरी पूर्वभागः

१६. स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । - कादम्बरी पूर्वभागः

१७. सुलभोत्साहसम्पत् खलु यौवनम् । - अजातशत्रुः परि०५