गर्भे नु सन् नु अन्वेषामवेदम्...

विकिसूक्तिः तः

गर्भे नु सन् नु अन्वेषामवेदम् अहं देवानां जनिमानि विश्वा ।…. गर्भे एवैतत् शयानो
वामदेव एवमुवाच ॥ - ऎतरेयोपनिषत् २-१-५

मातृगर्भे एव शयानो वामदेवमहर्षिः 'अहं गर्भे एव विद्यमानः सन् सर्वासां देवतानां जन्मानि वेद' इति ज्ञातवान् ।

यौवने वा वार्धक्ये वा ज्ञानं प्राप्तव्यम् इति नियमो नास्ति, पूर्वजन्मसंस्कारप्राबल्यात् गर्भस्थस्यैव पुरुषस्य आत्मज्ञानोदयो
भवेत् । जन्मान्तरकृततपसा शुद्धान्तःकरणस्य अस्मिन्नेव जन्मनि बाल्ये एव आत्मज्ञानं प्राप्येत ॥

वामदेवमहर्षिः मातृगर्भे शयान एव सर्वात्मभावरूपम् आत्मज्ञानं लब्धवान् इति अयं मन्त्रः उदघोषयति । देवानामपि
आदिरहम्, समस्तस्यापि विश्वस्य अहमेव कारणम् इति ज्ञानमेव हि आत्मज्ञानं नाम । इदं सर्वेषामपि सुलभम् ।
सर्वथा चित्तशुद्धिमतः आत्मज्ञानं सर्वात्मभावरूपो मोक्षश्च निश्चितमेव भवति इत्यर्थः । ज्ञानोदयसमकाले एव मोक्षप्राप्तिः ॥