गायत्री वा इदं सर्वं...

विकिसूक्तिः तः

गायत्री वा इदं सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री वाग्वा इदं सर्वं भूतम् ।
गायति च त्रायते च ॥ - छान्दोग्योपनिषत् ३-१२-१

इदं सर्वं गायत्री एव । यद्यदस्ति तत् सर्वं गायत्री एव । वागेव गायत्री । सर्वं गायति
इति, त्रायते इति च गायत्री ॥

गायत्री इति छन्दः । षड्भिः अक्षरैः युक्ताः चत्वारः पादाः यस्मिन् विद्यन्ते तत्
गायत्रीच्छन्दः इति कथ्यते । चतुर्विंशत्यक्षरैः युक्तमेतत् गायत्रीच्छन्दः । सर्वमिदं
जगत् गायत्रीच्छन्द एव । सर्वोऽयं प्रपञ्चः नाममात्रः खलु ? नाम, अभिधानम्,
वाक्, वाचकम्, शब्दः – इत्येतानि पर्यायपदानि ॥

अस्मिन् जगति विद्यमानानि सर्वाण्यपि वस्तूनि नामवन्ति । कार्यं हि सर्वं केवलं
नाममात्रमेव । एकस्यैव वस्तुनः भिन्नानि भिन्नानि नामानि भवन्ति । नामानि
भिन्नानि, पदार्थस्तु एक एव । वाचैव व्यवहाराः, वाचैव सुखदुःखे, वाचैव
मानापमाने, वाचैव बन्धुबान्धवाः; सा वागेव अत्र ‘गायत्री’ इति उपदिश्यते ॥

"https://sa.wikiquote.org/w/index.php?title=गायत्री_वा_इदं_सर्वं...&oldid=16361" इत्यस्माद् प्रतिप्राप्तम्