गुडजिह्विकान्यायः

विकिसूक्तिः तः

किमपि कटु औषधं दातव्यं चेत् आदौ गुडं जिह्वायां स्थापयित्वा पश्चात् तत् कटु औषधं स्थापनीयम् । तेन तदौषधस्य कटुत्वं न भाति । एवं कस्यापि अप्रियस्य वश्त्तान्तस्य वेदनां साहयितुम् आदौ प्रियवार्ता श्राव्यते इति अनेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=गुडजिह्विकान्यायः&oldid=9756" इत्यस्माद् प्रतिप्राप्तम्