गोदोहनन्यायः

विकिसूक्तिः तः

गौः रक्षिता चेत् तस्याः दोहनमपि काले क्रियते इति यस्य कस्यापि मुख्यविषयस्य गौणाविषयेण सह संबन्धो भवति चेत् अस्य न्यायस्य प्रयोगो भवति ।

यथा – १) महाव्रतविधाने काम्यसूक्तानां पुरुषार्थत्वेन संबन्धो भवति क्रत्वर्थत्वेन न । (जैमिनिसूत्र – शाबरभाष्यम् ४-१-२)

2) तस्माद् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगाद् अनित्यानि । एवं उद्गीथाद्युपासनान्यपीति द्र्ष्टव्यम् । अत एव कल्पसूत्रकारा नैवंजातीयकानि उपासनानि क्रतुषु कल्पयांचक्रुः ॥ (ब्रह्मसूत्रशाङ्करभाष्ये ३-३-४२)

"https://sa.wikiquote.org/w/index.php?title=गोदोहनन्यायः&oldid=9760" इत्यस्माद् प्रतिप्राप्तम्