गोबलीवर्दन्यायः

विकिसूक्तिः तः

गाम् आनय बलीवर्दमपि आनय इति उक्ते कोऽपि बलीवर्दम् आनयति एतत् कार्यं गामानय च इत्यनेन वाक्येनैव भवति बलीवर्दमानय इत्यस्य वाक्यस्य आवश्यकता नास्ति । यतः गोशब्दस्य गौः बलीवर्द इति अर्थद्वयम् अस्ति ।

अक्षा भद्रो बलीवर्द ऋषभो वश्षभो वश्षः

अनड्वान् सौरभेयो गौः ॥(अमरकोषः)

गोपदस्य स्त्रीवाचकत्वमेव प्रसिद्धं न तु बलीवर्दवाचकत्वम् । तथापि गोबलीवर्द इति समासप्रयोगः बलीवर्दस्य विशिष्टबोधार्थम् इति ज्येष्ठाः ।

यथा –बलीवर्दस्य गोविशॆषत्वेऽपि बलीवर्दस्य झटिति गोत्वेन बोधनार्थं यथा प्रयोगः, तथा अन्ययोः सामान्यविशॆषरुपयोः झटिति बोधनार्थं प्रयोगः, तत्र अस्य प्रवश्त्तिः । भामती पश्ष्ठं ५१८,५३७

तुल्यन्यायः – ब्राह्मणवसिष्ठन्यायः

ऽ यत्र विशेषणकृतं प्राशस्त्यम् अभिप्रेतं तत्र ब्राह्मणवसिष्ठन्यायस्य प्रयोगो भवति ।

ऽ यत्र भेदः अभिप्रेतो भवति तत्र गोबलीवर्दन्यायस्य प्रयोगो भवति । लिङ्गभेदेन प्रसिद्धिः अप्रसिद्धिर्वा सूचिता भवति । बलीवर्दस्य अप्रसिद्धिकारणेन तस्य पश्थक् उल्लेखः कृतः ।

(याज्ञवल्क्यस्मश्ति –मिताक्षरा ३-३१२-

"https://sa.wikiquote.org/w/index.php?title=गोबलीवर्दन्यायः&oldid=9764" इत्यस्माद् प्रतिप्राप्तम्