मौक्तिकानि (अकारः)
दिखावट
(ग्रन्थाः/सूक्तिग्रन्थाः/मौक्तिकानि/अकारः इत्यस्मात् पुनर्निर्दिष्टम्)
अतिचिन्तनम्
[सम्पाद्यताम्]- उप्पण्णमत्थे कज्जे अइचिन्तन्तो गुणागुणे तम्मि
- चिरआलमन्दपेच्छित्तणेण पुरिसो हणइ कज्जम् ॥ १ ॥
- उत्पन्नार्थेऽतिचिन्तयन् गुणागुणौ तस्मिन्
- चिरकालमन्दप्रेक्षित्वेन पुरुषो हन्ति कार्यम् ॥ गाथासप्तसती - शतक-गाथा ३.२४
अद्रष्टव्याः
[सम्पाद्यताम्]- इन्दे प्पवाहिअन्ते गोप्पशवे शंकमं च तालाणम्
- शुपुलिशपाणविपत्ति चत्ताली इमे ण दट्टव्वा ॥ २ ॥
- (इन्द्रः प्रवाह्यमाणो गोप्रसव: संक्रमप्टा ताराणाम्
- सुपुरुषप्राणविपत्तिप्टात्वार इमे न द्रष्टव्याः ॥) मृच्छकटिकम् २०.७
अधमः
[सम्पाद्यताम्]- तुष्टे सति न लाभाय रुष्टे नाशाय नैव च
- प्रज्वालितानि शष्पाणि नाङ्गाराय न भस्मने ॥३॥ समयोचितपध्यमालिका ४६.३३.
अनर्थचतुष्टयम्
[सम्पाद्यताम्]- यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता
- एकैकमप्यनार्थाय किमु यत्र चतुष्टयम् ॥४॥ हितोपदेशम्. पृ. २२
अनर्था:
[सम्पाद्यताम्]- क्षते प्रहारा निपतन्त्यभिक्ष्णं धनक्षये वर्धते जाठराग्निः
- आपत्सु वैराणि समुद्भवन्ति छिद्रेष्वनर्था बहुलीभवन्ति ॥५॥ पञ्चतंत्रम् २.१~२
अनादरः
[सम्पाद्यताम्]- अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति
- मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥६॥ सुभषितरत्नभाण्डागारम् १६९.७२३
अनार्यः
[सम्पाद्यताम्]- प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे
- तेजयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम् ॥७॥ सुभषितरत्नभाण्डागारम् ५७.१३१
अनित्यता
[सम्पाद्यताम्]- क्रोडीकरोति प्रथमं यदा जातमनित्यता
- धात्रीव जननी पश्चात्तदा शोकस्य कः क्रमः ॥८॥ नागानन्दम्.४.८
अनुरागः
[सम्पाद्यताम्]- दुःखं त्यक्तुं बद्धमूलोऽनुरागः
- स्मृत्वा स्मृत्वा याति दुःखं नवत्वम्
- यात्रा त्वेषा यद् विमुच्येह बाष्पं
- प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥९॥ स्वप्रवासवदतम् ४.६
अप्रतिबुद्धः
[सम्पाद्यताम्]- अप्रतिबुद्धे श्रोतरि वक्तुर्वाक्यं प्रयाति वैफल्यम्
- नयनविहीने भर्तरि लावण्यमिवेह खञ्जनाक्षीणाम् ॥ १० ॥ सुभषितरत्नभाण्डागारम् १७०.७४२
अभावः
[सम्पाद्यताम्]- लोभप्टोदगुणेन किं पिशुनता यध्यस्ति किं पातकैः
- सत्यं चेत्तपसा च किं शुचि मनो यध्यस्ति तीर्थेन किम्
- सौजन्यं यदि किं गुणैः स्वमहिमा यध्यस्ति किं मण्डनैः
- सद्विध्या यदि किं धनैरपयशो यध्यस्ति किं मृत्युना ॥११॥ भर्तृहरिशतकत्रयम् १.४४.
- क्षान्तिप्टोत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद् देहिनां
- ज्ञातिप्टोदनलेन किं यदि सुहद् दिव्यौषधैः किं फलम्
- किं सर्पैर्यदि दुर्जनाः किमु धनैर्विध्यानवध्या यदि
- व्रीडा चेत् किमु भूषणैः सुकविता यध्यस्ति राज्येन किम्॥१२॥ भर्तृहरिशतकत्रयम् १.१७.
अयोग्यता
[सम्पाद्यताम्]- किं करोत्येव पाण्डित्यमस्थाने विनियोजिताम्
- अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥ १३॥ पञ्चतन्त्रम् १.४२५
अल्पधीः
[सम्पाद्यताम्]- यत्र विद्वज्जनो नास्ति शुलाध्यस्तत्राल्पधीरपि
- निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥१४॥ हितोपदेशम् १.६९
अव्यवस्थितचित्ताः
[सम्पाद्यताम्]- क्षणे तुष्टाः क्षणे रुष्टास्तुष्टा रुष्टाः क्षणे क्षणे
- अव्यवस्थितचित्तानां प्रसादोऽपि भयङकरः ॥२५॥ समयोचितपध्यमालिका ६.१८
असज्जनः
[सम्पाद्यताम्]- कृतशतमसत्सु नष्टं सुभषितशतं च नष्टमबुधेषु
- वचनशतमवचनकरे बुद्धिशतमचेतने नष्तम् ॥१६॥ हितोपदेशम् २.१६१.
आचारः
[सम्पाद्यताम्]- आचार: परमो धर्म आचारः परमं तपः
- आचार: परमं ज्ञनमाचारात् किं न साध्यते॥१७॥ समयोचितपध्यमालिका १३.२५
आत्मबलम्
[सम्पाद्यताम्]- जे आत्मबलमं जाणिअ भालं तुलिदं वहेइ माणुस्से
- ताह खलणं ण जाअदि ण अ कन्ताल्गदो विवज्जदि ॥१८॥
- (यः आत्मबलं ज्ञात्वा भारं तुलितं वहति मनुष्यः
- तस्य स्खलनं न जायते न च कान्तारगतो विपध्यते॥) मृच्छकटिकम् २.१४.
आत्मश्रेयः
[सम्पाद्यताम्]- यावत् स्वस्थामिदं शरीरमरुजं यावज्जरा दूरतो
- यावच्चोन्द्रियशक्तिरप्रतिहता यावत् क्षयो नायुषः
- आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
- सन्दीप्ते भवने तु कूपखननं प्रतुध्यम: कीदॄशः ॥१९॥ भर्तृहरिशतकत्रयम् ३.७५
आत्मापराधफलानि
[सम्पाद्यताम्]- रोगशोकपरीतापवन्धनव्यसनानि च
- आत्मापराधवृक्षाणां फलान्येतानि देहिनाम् ॥२०॥ हितोपदेशम्. १.४१
आतिथ्यम्
[सम्पाद्यताम्]- अरावप्युचितं कार्यमातिथ्यं गृहमागते
- छेत्तु: पार्श्वगतां छायां नोपसंहरते द्रुम: ॥ २१॥ हितोपदेशम् १५९.
आपत्परिहारः
[सम्पाद्यताम्]- चिन्तनीया हि विपदामादावेव प्रतिक्रिया
- न कूपखननं युक्तं प्रदीप्ते वाह्निना गृहे ॥ २२ ॥ सुभषितरत्नभाण्डागारम् १५३.१७
आर्यः अनार्यः
[सम्पाद्यताम्]- पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि
- तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ २३ ॥ सुभाषितावलि ३६.२२१
आशा
[सम्पाद्यताम्]- आशाया ये दासास्ते दासाः सर्वलोकस्य
- आशा येषां दासी तेषां दासायते लोकः ॥२४॥ सुभषितरत्नभाण्डागारम् ७६.२८