मौक्तिकानि (पवर्गः)

विकिसूक्तिः तः
(ग्रन्थाः/सूक्तिग्रन्थाः/मौक्तिकानि/पवर्गः इत्यस्मात् पुनर्निर्दिष्टम्)

पटाटोपः[सम्पाद्यताम्]

निर्विषेणापिसर्पेण कर्तव्या महती फटा
विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥ १०५ ॥ पञ्चतन्त्रम्. १.२२५

पण्डितः[सम्पाद्यताम्]

मातृवत् परदारेषु परद्रव्येषु यः पश्यति स पण्डितः ॥ १०६ ॥ हितोपदेशम्. १.१४

परजीवनम्[सम्पाद्यताम्]

धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्
न शक्यं यत्परित्यक्तमात्मच्छन्देन जीवितम् ॥ १०७ ॥ समयोचितपध्यमालिका. ३६.११

परदोषान्वेषणम्म्[सम्पाद्यताम्]

दूरेऽपि परस्यागसि पटुर्जनो नात्मनः समीपेऽपि
स्वं व्रणमक्षि न पश्यति शाशिनि कलङ्कं निरूपयति ॥ १०८ ॥ सुभषितरत्नभाण्डागारम्. ५८.१८१

परान्नजीवी[सम्पाद्यताम्]

रोगी चिरप्रवासी परान्नभोजी परावसतशायी
यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः ॥ १०९ ॥ हितोपदेशम्. १.१४१

परितोषः[सम्पाद्यताम्]

वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ ११० ॥ भर्तृहरिशतकत्रयम्. ३.५३

परीक्षा[सम्पाद्यताम्]

आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति
विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ॥ १११ ॥ सुभषितरत्नभाण्डागारम्. १७०.७५५.

परोपकारः[सम्पाद्यताम्]

संक्षेपात् कथ्यते धर्मो जनाः विस्तरेण वः
परोपकारः पुण्याय पापाय परपीडनम् ॥ ११२ ॥ पञ्चतन्त्रम्. ३.१०१.

परोपकारी[सम्पाद्यताम्]

यस्मिन् जीवति जीवन्ति बहवः स तु जीवति
काकोऽपि किं न कुरुते चञ्च्वा स्वोदरपूरणम् ॥ ११३ ॥ हितोपदेशम्. २.३७

परोपजीवत्वम्[सम्पाद्यताम्]

कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्र्यम्
कष्टात् कष्टतरं किं परगृहवासः परान्नं च ॥ ११४ ॥ सुभषितरत्नभाण्डागारम्. ९६.३

प्रज्ञा[सम्पाद्यताम्]

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ ११५ ॥ हितोपदेशम्. ३.१११.

पाण्डित्यम्[सम्पाद्यताम्]

को धर्मो भूतदया किं सौख्यमरोगिता जगति जन्तोः
कः स्नेहः सद्भावः किं पाण्डित्यं परिच्छेदः ॥ ११६ ॥ हितोपदेशम्. १.१४१

पातकम्[सम्पाद्यताम्]

बालत्वे च मृता माता वृद्धत्वे च मृताः सुताः
यौवने च मृता भार्या पातकं विमतः परम् ॥ ११७ ॥ समयोचितपध्यमालिका. ६०.६०

पापः[सम्पाद्यताम्]

 
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये
पयःपानं भुजाङ्गानां केवलं विषवर्धनम् ॥ ११८ ॥ पञ्चतन्त्रम्. १.४२०

पापफलम्[सम्पाद्यताम्]

 
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ११९ ॥ समयोचितपध्यमालिका. १७.१६

प्राणविमुक्तिः[सम्पाद्यताम्]

जलमग्निर्विषं शस्त्रं क्षुद् व्याधिः पतनं गिरेः
निमित्तं किंचिदासध्य देही प्राणैर्विमुच्यते ॥ १२० ॥ हितोपदेशम्. १.१६५

प्राज्ञः[सम्पाद्यताम्]

 
अजरामरवत् प्राज्ञो विध्यामर्थं च साधयेत्
गृहीत एव केशेषु मृत्युना धर्ममाचरेत् ॥ १२१ ॥ हितोपदेशम्. प्र. ३.

पितृभक्तिः[सम्पाद्यताम्]

  
तिष्ठन्भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत्संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः
किं भुक्ते भुवनत्रये धृतिरसौ भुक्तोज्झिते या गुरो
रायसः खलु राज्यमुज्झितगुरोस्तत्रास्ति कप्टिदूगुणः ॥ १२२ ॥ नागनन्दम्. १.६

प्रियः[सम्पाद्यताम्]

 
अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव सः
दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ १२३ ॥ हितोपदेशम्. २.१३३

प्रियवचनम्[सम्पाद्यताम्]

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ॥ १२४ ॥ समयोचितपध्यमालिका. ६३.९

प्रियवदनः[सम्पाद्यताम्]

 
अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः
इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १२५ ॥ सुभषितरत्नभाण्डागारम्. १६९.७३०

प्रियवादिनः[सम्पाद्यताम्]

 
सुलभा पुरुषा राजन् सततं प्रियवादिनः
अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ १२६ ॥ पञ्चतन्त्रम्. २.१६९

प्रियवादी[सम्पाद्यताम्]

 
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्
को विदेशः सुविधानां कः परः प्रियवादिनाम् ॥ १२७ ॥ चाणक्य. ७३

प्रेम[सम्पाद्यताम्]

 
अद्दंसणेण पेम्मं अवेइ अइदंसणेण वि अवेइ
पिसुणजणजम्पिएण वि अवेइ एमेअ वि अवेइ ॥ १२८ ॥
(अदर्शनेन प्रेमापैत्यतिदर्शनेनाप्यपैति ॥) गाथासप्तसती -शतक-गाथा. १.८१

पेम्मस्स विरोहिअसंधिअस्स पच्चक्खदिट्ठविलिअस्स
उअअस्स व ताविअसीअलस्स विरसो रसो होइ ॥ १२९ ॥

(प्रेम्णो विरोधितसन्धितस्य प्रत्यक्षदृष्टव्यलीकस्य
उदकस्येव तापितशीतलस्य विरसो रसो भवति) गाथासप्तसती -शतक-गाथा. १.५३

पुरुषः[सम्पाद्यताम्]

 
स स्निग्धोऽदुशलान् निवारयति यस्तत् कर्म यन् निर्मलं
सा स्त्री यनुविधायिनी स मतिमान् यः सद्भिरभ्यर्च्यते
सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया मुच्यते
तन् मित्रं यदकृत्रिमं स पुरुषो यः खिध्यते नेन्द्रियैः ॥ १३० ॥ हितोपदेशम्. २.१४२.

बन्धनम्[सम्पाद्यताम्]

तावद्दृढं बन्धनमस्ति लोके न दारवं तान्तवमायसं वा
यावद्दृढं बन्धनमेतदेव मुखं च लाक्षं ललितं च वाक्यं ॥ १३१ ॥ सौन्दर. ७.१४

ब्रह्मचर्यपालनम्[सम्पाद्यताम्]

 
दुष्करम् साध्वनार्येण मानिना चैव मार्दवं
अतिसर्गप्टा लुब्धेन ब्रह्मचर्य च रागिणा ॥१३२ ॥ सौन्दर. १.१३

बान्धवः[सम्पाद्यताम्]

उत्सवे व्यवसने चैव दुर्भिक्षे शत्रुविग्रहे
राजद्वारे श्मशाने च यस्तिष्ट्ठति स बान्धवः ॥ १३३ ॥ चाणक्य. १७

बुद्धिः[सम्पाद्यताम्]

अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्ष्णम्
आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ।। १३४ ॥ समयोचितपध्यमालिका. ७.३१

बुद्धिविकासः[सम्पाद्यताम्]

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति
तस्य दिवाकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥ १३५ ॥ सुभषितरत्नभाण्डागारम्. १७०.७६०

भयम्[सम्पाद्यताम्]

अपराधो न मेऽस्तीति नैतद् विश्वासकारणम्
विध्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ १३६ ॥ हितोपदेशम्. १.७५
उत्थायोत्थाय बोद्धाव्यं महद् भयमुपस्थितम्
मरणव्याधिशोकानां किमध्य निपतिष्यति ॥ १३७ ॥ हितोपदेशम्. १.४

भाग्यक्षयः[सम्पाद्यताम्]

यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते ।
तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः ॥ १३८ ॥ मृच्छकटिकम्. १.५३

भूतसमागमः[सम्पाद्यताम्]

यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥ १३९ ॥ हितोपदेशम्. ४.६९.

यथा हि पथिकः कप्टिच्छायामाश्रित्य तिष्ठति
विश्रम्य च पुनर्गच्छेत् तद्वद् भूतसमागमः ॥ १४० ॥ हितोपदेशम्. ४.७०

भेदः[सम्पाद्यताम्]

वाजिवारणलोहानां काष्ठपाषाणवाससाम्
नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ १४१ ॥ हितोपदेशम्. २.४०

मतिमान्[सम्पाद्यताम्]

अर्थनाशं मनस्तापं गृहे दुप्टारितानि च
वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ १४२ ॥ हितोपदेशम्. १.१३०

मध्यमः[सम्पाद्यताम्]

ता मज्झिमो व्विअ वरं दुज्जणसुअणेहिं दोहिं वि ण कज्जम्
जह दिट्ठो तवइ खलो तहेअ सुअणो अईसन्तो ॥ १४३ ॥
(तन् मध्यम एव वरं दुर्जनसुजनाभ्यां द्वाभ्यामपि न कार्यम् ।
यथा दुष्टस्तपति खलस्तथैव सुजनोऽदृश्यमानः ॥) गाथासप्तसती -शतक-गाथा. ३.२४

मनः[सम्पाद्यताम्]

प्रदहन्दहनोऽपि गृह्यते विशरीरः पवनोऽपि गृह्यते
कुपितो भुजगोऽपि गृह्यते प्रमदानां तु मनो न गृह्यते ॥ १४४ ॥ सौन्दर.८३६

मन्दगतिः[सम्पाद्यताम्]

शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम्
शनैर्विध्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥ १४५ ॥ सुभषितरत्नभाण्डागारम्. १५६.१२६.

मनःसन्तोषः[सम्पाद्यताम्]

सर्वाः सम्पत्तयस्तस्य सन्तुष्टं यस्य मानसम्
उपानदूगूढपादस्य ननु चर्मावृतैव भूः ॥ १४६ ॥ हितोपदेशम्. १.१४४

मनस्विजनवृत्तिः[सम्पाद्यताम्]

कुसुमस्तबकस्येव द्वे वृत्ती तु मनस्विनः
सर्वेषां मूर्घ्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ १४७ ॥ हितोपदेशम्. १.१३४

मनुष्यरूपमृगाः[सम्पाद्यताम्]

 
येषां न विध्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः
ते मृत्युलोके भुवि भारभूता
मनुष्यरूपेण मृगाप्टारन्ति ॥ १४८ ॥ सुभषितरत्नभाण्डागारम्. ४०.३२

मनोनिग्रहः[सम्पाद्यताम्]

शिल मुण्डिदे तुण्ड मुण्डिदे चित्त ण मुण्डिदे कीश मुण्डिदे
जाह उण अ चित ण मुण्डिदे शाहु शुट्ठु शिल ताह मुण्डिदे ॥ १४९ ॥
(शिरो मुण्डितं तुण्डं मुण्डितं चित्तं न मुण्डितं किमर्ठं मुण्डितम् ।
यस्य पुन्प्टा चित्तं मुण्डितं साधु सुष्ठु शिरस्तस्य मुण्डितम् ॥) मृच्छकटिकम्. ८.३

महाजनाः[सम्पाद्यताम्]

 
श्रुतिर्विभिन्ना स्मृतयप्टा भिन्ना नैको मुनिर्यस्य वचः प्रमाणम्
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ १५० ॥सुभषितरत्नभाण्डागारम्. १७३.८५५

महात्मा[सम्पाद्यताम्]

गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्
तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मानः ॥ १५१ ॥ भामिनिविलासः १.९२

आमरणान्ताः प्रणयाः कोपस्तत्क्षणभङ्गुराः
परित्यागाप्टा निःसङ्गा भवन्ति हि महात्मनाम् ॥१५२ ॥ हितोपदेशम्. १.१९२

आर्भन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ १५३ ॥ शिशुपालवधम्. २.७९

परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्
धर्मे स्वीयमनुष्ठानं कस्यचित् तु महात्मनः ॥ १५४ ॥ हितोपदेशम्. १.१०३

वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥ १५५ ॥ सुभषितरत्नभाण्डागारम्. ४०.२६४

महात्मा - दुरात्मा[सम्पाद्यताम्]

 
मन्स्येकं वचस्येकं कर्मण्येकं महात्मनाम्
मनस्यन्यद् वचनस्यन्यत् कार्ये चान्यद् दुरात्मनाम् ॥ १५६ ॥ समयोचितपध्यमालिका. ५३.८

महापुरुषः[सम्पाद्यताम्]

द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः
प्रार्थितं यप्टा कुरुते यप्टा नार्थयते परम् ॥ १५७ ॥ समयोचितपध्यमालिका. ३८.२१.

महिमशालिनः[सम्पाद्यताम्]

 
धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चमाः
प्रभवोऽप्यमत्तास्ते महामहिमशालिनः ॥ १५८ ॥ सुभषितरत्नभाण्डागारम्. ४६.५३.

महिमा[सम्पाद्यताम्]

अधोऽधः पश्यतः कस्य महिमा नोपचीयते
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ १५९ ॥ हितोपदेशम्. २.२

ज्वलति चलितेन्धनोऽग्रिर्विप्रकृतः पन्नगः फणां कुरुते
प्रायः स्वं महिमानं क्षोभात् प्रतिपध्यते जन्तुः ॥ १६० ॥ शाकुन्तलम्

मानः[सम्पाद्यताम्]

अधमा धनमिच्छन्ति शनमानौ च मध्यमाः
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ १६१ ॥ समयोचितपध्यमालिका.

मित्रम्[सम्पाद्यताम्]

न मातरि न दारेषु न सोदर्ये न चात्मजे
विश्वासस्तादृशः पुसां यादृङ् मित्रे स्वभावजे ॥ १६२ ॥ हितोपदेशम्.

सो अत्थो जो हत्थे तं मित्तं जं णिरन्तरं वसणे
तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो ॥१६३ ॥
(सोऽर्थो यो हस्ते तन् मित्रं यन् निरन्तरं व्यसने
तद् रूपं यत्र गुणास्तद् विज्ञानं यत्र धर्मः ॥) गाथासप्तसती -शतक-गाथा.

मिथःप्रशंसा[सम्पाद्यताम्]

उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः
परस्परं प्रशंसन्ति अहो रूपमहो ध्वनिः ॥ १६४ ॥ समयोचितपध्यमालिका.

मूर्खः[सम्पाद्यताम्]

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥ १६५ ॥ हितोपदेशम्.

शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो
नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ
व्यधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥ १६६ ॥ भर्तृहरिशतकत्रयम्.

मूर्खस्य पञ्च चिह्नानि गर्वी दुर्वचनी तथा
हठी चाप्रियवादी च परोक्तं नैव मन्यते ॥ १६७ ॥ समयोचितपध्यमालिका

मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः
तावच्च शोभते मूर्खो यावत् किंचिन्न भाषते ॥ १६८॥ पञ्चतन्त्रम्.

मूर्खजनसेवा[सम्पाद्यताम्]

अरण्यरुदितं क्रुतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमारोपितं सुचिरमूषरे वर्षितम्
श्वपुच्छमवनामितं बधिरकर्णजापः क्रुतः
धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ १६९ ॥ सुभषितरत्नभाण्डागारम्.

मूढः[सम्पाद्यताम्]

सर्वशुचिनिधानस्य क्रुतघ्रस्य विनाशिनः
शरीरकस्यापि कृते मृढाः पापानि कुर्वते ॥ १७० ॥ नागानन्दम्

मृगेन्द्रता[सम्पाद्यताम्]

नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः
विक्रमार्जितराज्यस्य स्वयमेव मृगेन्द्रता ॥ १७१ ॥ हितोपदेशम्.

मृत्युकारकाः[सम्पाद्यताम्]

दुष्टा भार्या शठं मित्रं भ्रुत्यप्टोत्तरदायकः
ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ १७२ ॥ हितोपदेशम्.

मृताः[सम्पाद्यताम्]

 
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ १७३ ॥ पञ्चतन्त्रम्.

मैत्री[सम्पाद्यताम्]

<poem> आरम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पप्टात् दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ १७४ ॥ भर्तृहरिशतकत्रयम्.

"https://sa.wikiquote.org/w/index.php?title=मौक्तिकानि_(पवर्गः)&oldid=15751" इत्यस्माद् प्रतिप्राप्तम्