रामायणसूक्तयः (कर्म)

विकिसूक्तिः तः
(ग्रन्थाः/सूक्तिग्रन्थाः/रामायणसूक्तयः/कर्म इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

१. अविज्ञाय फलं यो हि कर्मत्वेवानुधावति ।

स शोचेत् फलवेलायां यथा किंशुकसेचकः ॥ (अयोध्याकाण्डः ६३/९)

२. ऐहलओकिकपारक्यं कर्म पुंभिर्निषेव्यते ।

कर्माण्यपि तु कल्यानि लभते काम्मास्थितः ॥ (युद्धकाण्डः ६४/९)

३. ऋद्धिं रूपं बलं पुत्रान् वित्तं शूरत्वमेव च ।

प्राप्नुवन्ति नरा लोके निर्जितं पुण्यकर्मभिः ॥ (उत्तरकाण्डः २५/२६)

४. कर्तव्यमकृतं कार्यं सतां मनुमुदीरयेत् । (सुन्दरकाण्डः १/९७)

५. कर्म चैव हि सर्वेषां कारणानां प्रयोजनम् ।

श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ (युद्धकाण्डः ६४/७)

६. कशिचदाम्रवणं छित्त्वा पलाशाशंच निषिञ्चति ।

पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ (अयोध्याकाण्डः ६३/८)

७. धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति । (सुन्दरकाण्डः १/२०१)

८. न तु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् ।

कालोऽप्यङ्गीभवत्यत्र सस्यानामिव पक्तये ॥ (अरण्यकाण्डः ४९/२७)

९. पापस्य हि फलं दुःखं तद् भोक्तव्यमिहात्मना । (उत्तरकाण्डः १५/२४)

१०. प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति ।

लब्धव्यान्येव लभते दुःखानि च सुखानि च ॥ (उत्तरकाण्डः ५४/१६)

११. यदाचरति कल्याणि शुभं वा यदि वाशुभम् ।

तदेव लभते भद्रे कर्ता कर्मजात्मनः ॥ (अयोध्याकाण्डः ६३/६)

१२. यादृशं कुरुते कर्म तादृशं फलमश्नुते ।

(उत्तरकाण्डः १५/२५)

१३. लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । (उत्तरकाण्डः ८३/२०)

२४. शुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते । (युद्धकाण्डः १११/२६)

"https://sa.wikiquote.org/w/index.php?title=रामायणसूक्तयः_(कर्म)&oldid=2897" इत्यस्माद् पुनः प्राप्तिः