घटनिर्मातृ- भुवनविधातृ –कलहन्यायः

विकिसूक्तिः तः

घटनिर्मातुः कुलालस्य भुवनविधातुः ब्रह्मणश्च मध्ये महान् भेदो भवति । तथा कश्चन अल्पप्रज्ञः नूत्नतया पद्यानि रचयितुम् आरभ्य महाकविना केनचित् प्रथितयशसा स्पर्धते कलहायते चेत् कियत् हासास्पदं भवेत् । अस्मिन्नर्थे कश्चन श्लोको भवति –

हठादाकृष्टानां कतिपयपदानां रचयिता ।

जनः स्पर्धालुश्चेदहह कविना वश्यवचसा ।

भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ

घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ भोजप्रबन्धे २४४ (सा. ८८५)