घुणाक्षरन्यायः

विकिसूक्तिः तः

काष्टगतकीटकानां घुण इति नाम । ते कीटकाः काष्ठे स्थित्वा यथेष्टं तस्य छिद्राणि कुर्वन्ति । तानि छिद्राणि एकपङ्क्त्या दश्श्यमानानि लिपिसदश्शानि भवन्ति । एवं घुणाख्यकीडैः निर्मितानि अक्षरसदश्शानि अनपेक्षितानि अर्थरहितानि यादश्च्छिकानि च भवन्ति । एवं यादृच्छिकरीत्या घटितस्य विषये अस्य न्यायस्य प्रयोगः क्रियते ।

यथा- श्रीर्निर्मितप्राप्तघुणाक्षतैक

वर्णोपमावाच्यमलं ममार्ज । (शिशुपालवधे ३-६८)

घुणोत्किरणात् कथञ्चिन्निष्पन्नमक्षरं घुणाक्षरम् । तदिव यदकुशलेन दैवान्निष्पद्यते तद् घुणाक्षरीयम् ॥

"https://sa.wikiquote.org/w/index.php?title=घुणाक्षरन्यायः&oldid=9670" इत्यस्माद् प्रतिप्राप्तम्