घोटाकब्रह्मचारिन्यायः

विकिसूक्तिः तः

घोटक इति अश्वस्य नाम । यावत्पर्यन्तम् अश्वां न पश्यति तावत्पर्यन्तम् अश्वस्य कामविकारो न भवति अतः सः पूर्णब्रह्मचारी एव भवति । परन्तु अश्वायाः दर्शनेन तस्य विकारो भवति ब्रह्मचर्य च नश्यति । एवं यस्य कस्यचन ब्रह्मचर्य स्त्रीदर्शनपर्यन्तमेव भवति चेत् तस्य अस्थिरब्रह्मचर्यस्य कृते अस्य न्यायस्य प्रयोगो भवति ।