चक्रभ्रमणन्यायः
कुम्भादि- निर्माणसमये कुलालः एकेन दण्डेन चक्रं भ्रामयति अनन्तरं च दण्डम् अपनयति । दण्डे अपनीते अपि पूर्ववेगस्य कारणेन चक्रं किञ्चित्कालं यावत् भ्रमत्येव । एवं पूर्वसंस्काराणां कारणेन कतिपयजन्मसु वासनाः भवन्ति इति अनेन न्यायेन बोध्यते ।
एवं वेदान्तशास्त्रे अस्य उपयोगः क्रियते यत् सञ्चित- आगामि-रुपकर्माणि ज्ञानाग्निना नष्टानि भवन्ति तथापि प्रारब्धकर्म एकम् अवशिष्टं भवति । प्रारब्धकर्मणः नाशपर्यन्तं शरीरधारणं नाम जीवन्मुक्तिरिति शास्त्ररीतिः । यथा निमित्ते अपनीते अपि पूर्ववेगवशात् चक्रं भ्रमेत् तथा पूर्वकर्मवशात् शरीरं तिष्ठतीति अनेन न्यायेन बोध्यते ।
(चक्रभ्रमिवत् धश्तशरीरः- सांख्यकारिका)
1. यथा दण्डापगमे संस्कारवशात् चक्रं भ्रमति तथा देहधारणकर्मणोः अक्षीणत्वात् न तत्क्षणात् मुक्तिः किन्तु उपभोगादिना कर्मक्षयादिति । तथा च श्रुतिः – दीक्षयैव नरो मुच्येत् तिष्ठेत् मुक्तोऽपि विग्रहे । कुलालचक्रमध्यस्थो विच्छिन्नोऽपि भ्रमेद् घटः ॥ 2. न तावदनाश्रित्य आरब्धकार्य कर्माशयं ज्ञानोत्पत्तिरुपद्यते । आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृश्त्तवेगस्य प्रत्इबन्धासंभवात् भवति वेगक्षयप्रतिपालनम् ॥ (ब्रह्मसूत्रशाङ्करभाष्ये ४-१-१५)