चक्रैकं न रथी सूर्यः...

विकिसूक्तिः तः

चक्रैकं न रथी सूर्यः
भूमौ तिष्ठति सारथिः।
अगस्त्यतातनिर्माणः
यदि जानासि तद्वद॥

रथी अस्ति, एकं चक्रं, किन्तु सूर्यः न । सारथिः भूमौ तिष्ठति । अगस्त्य(कुम्भसम्भवः इति ख्यातः)तातनिर्माणः कः इति यदि जानाति तर्हि वद ।

उत्तरम्

कुम्भकारः
"https://sa.wikiquote.org/w/index.php?title=चक्रैकं_न_रथी_सूर्यः...&oldid=866" इत्यस्माद् प्रतिप्राप्तम्