चतुर्व्यूहन्यायः

विकिसूक्तिः तः

विश्वरचनया संबद्धानि देवतातत्त्वानि भवन्ति । तेषां तत्त्वानां केचन व्यूहाः शास्त्रकारैः दर्शिताः एते शास्त्रानुसारं भिन्नाः भवन्ति । यथापाञ्चरात्रसंप्रदाये- वासुदेवः, सङ्कर्षणः प्रद्युम्नः, अनिरुद्धः इति । बह्वृचोपनिषदि –शरीरपुरुषः, शरीरपुरुषच्छन्दः पुरुषः, वेदपुरुषः, महापुरुषः इति । आयुर्वेदे – रोगः, आरोग्यम्, निदानं, भैषज्यम् –इति । (योगदर्शनानुसारं अनागतं दुःखं हेयं, अविद्या हेयहेतुः, दुःखस्य अत्यन्तनिवृत्तिः हानं, विवेकज्ञानं हानोपायः इति )

"https://sa.wikiquote.org/w/index.php?title=चतुर्व्यूहन्यायः&oldid=9867" इत्यस्माद् प्रतिप्राप्तम्