चन्दनगुणन्यायः

विकिसूक्तिः तः

मलयपर्वते चन्दनवृक्षाः बाहुल्येन भवन्ति इति प्रसिद्धिः । एतेषां चन्दनवृक्षाणां कारणेन तत्र वर्तमानेषु निम्बादिवृक्षेष्वपि सुगन्धः भासते इत्यपि लोकश्रुतिः । तथा सज्जनपुरुषाणां संगत्या दुर्जनस्य लाभो भवतीति अनेन न्यायेन बोध्यते ।

किं तेन हेमगिरिणा रजताद्रिणा वा

यत्राश्रिताश्च तरवस्तरवस्त एव ।

मन्यामहे मलयमेव यदाश्रयेण

कङ्कोलनिम्बकुटजा अपि चन्दनाः स्युः ॥ (भर्तुहरि २-७८)

"https://sa.wikiquote.org/w/index.php?title=चन्दनगुणन्यायः&oldid=9869" इत्यस्माद् प्रतिप्राप्तम्