चलत्येकेन पादेन...

विकिसूक्तिः तः

सुभाषितम्

चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।
नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥




तात्पर्यम्

बुद्धिमान् एकेन पादेन चलनावसरे एव अपरमपि संस्थाप्य तिष्ठति । पूर्वतनस्य अपेक्षया उत्तमं स्थानम् अप्राप्य बुद्धिमान् पूर्वतनं न परित्यजेत् ।

"https://sa.wikiquote.org/w/index.php?title=चलत्येकेन_पादेन...&oldid=14910" इत्यस्माद् प्रतिप्राप्तम्