चलन्ति गिरयः कामं...

विकिसूक्तिः तः

सुभाषितम्

चलन्ति गिरयः कामं युगान्तपवनाहताः ।
कृच्छ्रेऽपि न चलत्येवं धीराणां निश्चलं मनः ॥

calanti girayaḥ kāmaṁ yugāntapavanāhatāḥ ।
kr̥cchrē:'pi na calatyēvaṁ dhīrāṇāṁ niścalaṁ manaḥ

पदच्छेदः

चलन्ति, गिरयः, कामं, युगान्तपवनाहताः, कृच्छ्रे, अपि, न, चलति, एवं, धीराणां, निश्चलं, मनः ।


तात्पर्यम्

पर्वताः युगपर्यन्तं वायुना ताडिते सति किञ्चिद्वा चलन्ति । परन्तु धीराणां मनः क्लेशकाले अपि निश्चलं भवति । चञ्चलं न भवति ।

"https://sa.wikiquote.org/w/index.php?title=चलन्ति_गिरयः_कामं...&oldid=16739" इत्यस्माद् प्रतिप्राप्तम्