चाटुचणकः(उपजीविका)
कौपीनं भस्मना लेपो दर्भाः रुद्राक्षमालिका । |
मूर्खोऽपि सुखेन यदि जीवितुम् इच्छति तर्हि तेन कौपीनं धृत्वा भस्मना शरीरस्य लेपनं करणीयम् । दर्भासने उपविश्य रुद्राक्षमालिका चालनीया हस्तेन । एकान्ते वसता तेन मौनम् अवलम्बनीयम् । एतावत् कृतं चेत् जनाः अहमहमिकया आगत्य प्रणमन्ति, अर्चन्ति, सत्कुर्वन्ति च । अतः मूर्खता अस्ति चेदपि चिन्ता न करणीया । वेषधारणात् जनप्रीतिः प्राप्तुं शक्या निश्चयेन ।
कृषिवाणिज्यहीनानां दीनानां बुद्धिपौरुषैः । |
लोके कृषिवाणिज्यादिषु निपुणाः स्ववृत्त्या आनन्देन जीवन्ति । तद्रहिताः अपि यदि बुद्धिमन्तः स्युः ते अपि आनन्देन जीवन्ति । किन्तु केचन कृषिवाणिज्यादिषु अनिपुणाः, बुद्धिपौरुषेण हीनाः च भवन्ति । ते कथं जीवन्ति ? ते तु धर्मोपदेशव्याजेन जीवन्ति । सत्यं खलु एतत् ? धर्मोपदेशकाः सर्वे वैराग्यवन्तः, धर्मैकसक्ताः वा न भवन्ति । केचन उपजीविकायै एव धर्मोपदेशम् अवलम्बितवन्तः भवन्ति । अस्माकं देशे धर्मोपदेशकानां विषये महती श्रद्धा भवति सामान्यानाम् । अतः तेषां जीवनं प्रचलति निरातङ्कम् ।
'अग्निहोत्रं त्रयो वेदास्त्रिपुण्ड्रं भस्मधारणम् । |
लोके केचन पौरुषेण जीवन्ति । शरीरबलप्रधानं कार्यं कुर्वन्ति ते । अन्ये केचन बुद्धिप्रधानानि कार्याणि कुर्वन्तः जीवन्ति । एतादृशम् उभयविधम् अपि सामर्थ्यं येषां न भवति ते अग्निहोत्रादिकं, त्रीन् वेदान्, त्रिपुण्ड्रधारणं, भस्मधारणं वा अवलम्ब्य जीवन्ति ।
यदि न क्वापि विद्यायां सर्वथा क्रमते मतिः । |
विद्या हि श्रमसाध्या । अतः एव प्राचीनैः उक्तम् - ‘अलसस्य कुतो विद्या’ इति । किन्तु केचन अल्पां विद्याम् अधिगत्य चिन्तयन्ति - इतः परं मया अध्येतुं सर्वथा न शक्यते इति । तादृशः कश्चन प्राप्ताल्पविद्यः अलसः वदति - ‘विद्यायां मनः न प्रवर्तते मम । अतः मान्त्रिकः, (ज्योतिषिकः, पुरोहितः वा) योगी यतिः वा भविष्यामि’ इति । मान्त्रिकत्वयोगित्वयतित्वादीनि अपि वस्तुतः प्रयत्नसाध्यानि एव । किन्तु तत्र डाम्भिकाः अपि अल्पेन एव प्रयत्नेन ख्यातिं प्राप्तुम् अर्हन्ति । अतः एव अद्य एतादृशेषु क्षेत्रेषु डाम्भिकानाम् एव विजृम्भणं दृश्यते, न तु योग्यतावताम् ।