चाटुचणकः(ऋणम्)

विकिसूक्तिः तः

स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति ।
अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥

 यस्य स्मरणमात्रेण शरीरं शक्तिहीनं भवेत्, यस्य दर्शनात् बुद्धिः कार्यासमर्था भवेत् सः कः ? स तु अस्ति ‘ऋणदाता’ । तस्य महापिशाचस्य पीडा तु अवर्णनीया । अतः एव स्मरणमात्रात् एव शरीरे कम्पः । दर्शनेन तु जङ्घाबलं विलुप्यते ! अतः एव प्राचीनैः उक्तम् - ‘ऋणगर्ते पतनं विनाशाय’ इति ।


अन्तकोऽपि हि जन्तूनाम् अन्तकालमपेक्षते ।
न कालनियमः कश्चित् उत्तमर्णस्य विद्यते ॥

 यावत् मरणकालः सन्निहितः न भवेत् तावत् यमः अपि कस्यापि प्राणान् अपहर्तुं नार्हति । किन्तु तादृशं कालनियमं न अनुसरति ऋणदाता । यदाकदाचित् गृहद्वारे उपस्थाय ‘ऋणं प्रत्यर्पणीयम् इदानीम् एव’ इति भीतिजननपूर्वकं वदन् ऋणस्वीकर्तुः प्राणहरणाय एव उद्यतः भवति सः ।


ऋणम्
"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(ऋणम्)&oldid=15917" इत्यस्माद् प्रतिप्राप्तम्