चाटुचणकः(घृतम्)

विकिसूक्तिः तः
घृतम्

क्वचिद्धारा क्वचिद्बिन्दुः क्वचित् कटकटध्वनिः।
क्वचिच्च श्रूयते वार्ता क्वचित्सापि विनश्यति॥

भोजनपङ्क्तीषु घृतपरिवेषणविषये अयं चाटुश्लोकः वर्तते। परिवेषणावसरे कस्याञ्चित् पङ्क्तौ धारारूपेण घृतं परिवेश्यते। क्वचित् बिन्दुरूपेण। क्वचिच्च पात्रध्वनिमात्रं कट-कट इति श्रूयते। क्वचित् घृतम् आनेष्यन्ति इति वार्ता श्रूयते। क्वचित् सा वार्ता अपि न श्रूयते।

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(घृतम्)&oldid=16962" इत्यस्माद् प्रतिप्राप्तम्