चाटुचणकः(डम्भाचारः)
<poem>
लोभः पितातिवृद्धो जननी माया सहोदरः कूटः । भु्रकुटिरचना च विद्या पुत्रो दम्भस्य हुङ्कारः ॥
अन्येषां तोषणाय कृत्रिमान् व्यवहारान् यः आचरति सः उच्यते - ‘दम्भः’ इति । लोभः एव तस्य पिता । मायापूर्णा व्यवहृतिः तस्य माता । कुटिलव्यवहारः तस्य भ्राता । भ्रुकुटिवक्रतादिकं (कोपादिकं) तस्य कौशलम् । हुङ्कारः भवति तस्य पुत्रः । एतादृशानां साहाय्ये सति, इष्टस्य साधनं क्लेशाय भवेत् कथम् ?
यथा जानन्ति बहवः यथा वक्ष्यन्ति दातरि । तथा धर्मं चरेन्नित्यं न वृथा किञ्चिदाचरेत् ॥
धार्मिककार्याणाम् उद्देशः उभयथा भवति । केचन तानि कार्याणि पारलौकिकसुखाय कुर्वन्ति । अन्ये केचन ततः ऐहिकलाभं प्राप्तुम् इच्छन्ति । ये ऐहिकलाभेच्छवः तान् उद्दिश्य कविः अत्र कांश्चन उपायान् वदति । सर्वे यथा पश्येयुः (जानीयुः वा) तथा धर्माचरणं करणीयम् इति तु प्रथमः अंशः । दानशीलानां कर्णपथम् अपि धर्माचरणवार्ता यथा प्राप्नुयात् तथा जागरूकता वोढव्या इति तु द्वितीयः अंशः । एतादृशानि प्रयोजनानि यस्मात् न भवेयुः तादृशं धर्माचरणं न करणीयम् इति तु कवेः आप्तोपदेशः ।
तावद्दीर्घं नित्यकर्म यावत् स्याद्रष्टृमेलनम् । तावत्संक्षिप्यते सर्वं यावद्द्रष्टा न विद्यते ॥
दम्भाचारार्थं ये सन्ध्यावन्दनदेवपूजनादिकं कुर्वन्ति तेषां कृत्यानि द्रष्टृणाम् उपस्थितिं संख्यां च अवलम्बन्ते । यदि द्रष्टारः भवन्ति तर्हि जपमालाचालनं, देवस्थापनम्, अलङ्कारः, नीराजनम् इत्यादिकं दीर्घकालं यावत् महता आटोपेन भवति । यदि द्रष्टा कोऽपि न भवति तर्हि सर्वम् अत्यल्पकाले एव परिसमाप्यते ! द्रष्टुः अभावे आडम्बरस्य किं वा महत्त्वम् अवशिष्येत् ?
आमध्याह्नं नदीवासः समाजे देवतार्चनम् । सततं शुचिवेषश्च एतत् दम्भस्य लक्षणम् ॥
दम्भाचारार्थं केचन संन्यासिवेषं धरन्ति । विरक्तिः तेषु नाम मात्रेण अपि न भवति । तेषां सर्वे आचाराः बाह्यप्रदर्शनार्थं जनाकर्षणार्थं च भवति । अतः ते आमध्याह्नं नद्यां नदीतीरे वा तिष्ठन्ति । (यतः मध्याह्नपर्यन्तं तत्र जनानां गमनागमनं भवति एव ।) सर्वे यथा पश्येयुः तथा ते वैभवेन देवपूजां कुर्वन्ति । सर्वदा शुभ्रवेषं काषायवेषं च धरन्ति । एवम् उदरनिमित्तं बहुकृतवेषाः ते ।
[[|thumb|डम्भाचारः]]