चाटुचणकः(ब्रह्मा)

विकिसूक्तिः तः
ब्रह्मा

<poem>

गन्धं सुवर्णे फलमिक्षुदण्डे नाकारि पुष्पं खलु चन्दनेषु । विद्वान् धनाढ्यो नृपतिश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥

ब्रह्मा उत्तमवर्णयुक्तम् अमूल्यं सुवर्णं सृष्टवान् । किन्तु तत्र सः गन्धं न योजितवान् । माधुर्ययुक्तम् इक्षुदण्डं सृष्टवान् सः तस्मिन् फलदानसामर्थ्यं न योजितवान् एव । सुगन्धयुक्तं चन्दनवृक्षं सृष्टवान् सः चन्दनवृक्षेषु पुष्पयोजनं विस्मृतवान् । पण्डितान् सृष्टवान् सः तेभ्यः धनानुकूल्यं न कल्पितवान् । सकलभोगसाधनानि राज्ञे दत्तवान् सः दीर्घायुष्यं न दत्तवान् एव । एवं सृष्टिकर्ता बहून् प्रमादान् कृतवान् । सृष्टिकाले योग्यः मार्गदर्शी कोऽपि ब्रह्मणः पार्श्वे न आसीत् यत् तस्यैव फलम् एतत् !



का नाम बुद्धिहीनस्य विधेरस्य विदग्धता । कूष्माण्डेषु न यश्चक्रे तैलमूर्णं च दन्तिषु ॥

ब्रह्मा सृष्टिकर्ता । किन्तु तस्य विवेकः न्यूनः इति भाति कदाचित् । सः तैलांशम् अल्पाकारेषु तिलेषु निक्षिप्तवान् । यदि सः एव तैलांशः तेन कूष्माण्डेषु निक्षिप्तः स्यात् तर्हि, अहो, कियत् तैलं प्राप्तम् अभविष्यत् ! महाकारकः गजः सृष्टः अस्ति तेन । किन्तु ऊर्णं तेन स्थापितं मेषेषु । यदि गजः ऊर्णवत्त्वेन सृष्टः स्यात् तर्हि महान् लाभः खलु अभविष्यत् ?


अजागलस्थं स्तनमुष्ट्रपुच्छम् अण्डद्वयं वाजिगले च केशान् । वृथासृजत् साहिणिमारभूपं पूजां न लेभे भुवि पद्मयोनिः ॥

लोके त्रिमूर्तिषु अन्यतमस्य ब्रह्मदेवस्य पूजा नास्ति । तत्र कारणं स्यात् किमपि पौराणिकम् । किन्तु कविः कश्चन वदति - ‘‘अजागलस्तनौ, उष्ट्रपुच्छम्, अण्डद्वयम्, अश्वकण्ठे केशाः, साहिणिमारनामकः राजा इत्यादीन् प्रयोजनरहितान् ब्रह्मा सृष्टवान् । अतः एव कुपिताः जनाः ब्रह्मणः पूजां त्यक्तवन्तः’’ इति । निष्प्रयोजकानि कार्याणि कुर्वति जने अनादरः खलु सहजः ?

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(ब्रह्मा)&oldid=14580" इत्यस्माद् प्रतिप्राप्तम्