चाटुचणकः(लोकव्यवहारः)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem>

सदा जपपटो हस्ते मध्ये मध्येऽक्षिमीलनम् । सर्वं ब्रह्मेतिवादश्च सद्यः प्रत्ययहेतवः ॥

सदा हस्तेन जपमालिका धर्तव्या । मध्ये मध्ये नेत्रनिमीलनं कृत्वा ध्यानाभिनयः करणीयः । 'सर्वं खल्विदं ब्रह्म' 'सर्वं ब्रह्ममयम्' 'अहं ब्रह्मास्मि' इत्यादीनि महावाक्यानि पौनःपुन्येन वक्तव्यानि । एतादृशाः व्यवहाराः यस्मिन् भवन्ति तस्मिन् जनाः अवश्यं विश्वासं प्राप्नुवन्ति । जनानां विश्वासः प्राप्तः चेत् जीवने न भविष्यति कापि चिन्ता । एवं ननु ?


बालो विद्याव्यसनी तारुण्ये भोगमनर्गलो भुङ्क्ते । जिह्वाचपलो वृद्धः नैकत्र निर्वृतिसुखं लभते ॥ - (आत्रेयलेखमालातः)

मानवजीवनं लालसामयम् । तृष्णाबहुलम् । तस्मात् एव जीवने असन्तृप्तिः, असन्तोषः च । आ बाल्यात् अपि एषा एव प्रवृत्तिः । बाल्ये विद्यायां व्यसनम् । तत्रापि असन्तृप्तिः । तावता तारुण्यं प्राप्यते । तारुण्ये भोगेच्छा जागर्ति । तत्रापि तृप्तिप्राप्तितः पूर्वम् एव वार्धक्यप्राप्तिः । वार्धके च जिह्वाचापलं बाधते । वार्धक्यस्य अन्ते का स्थितिः इति वयं जानीमः एव । एवं मानवः आजीवनम् अतृप्तिमयम् एव जीवनं यापयति । निर्वृतिविषये चिन्तनं तु कदापि न भवति तस्य ।


मित्रास्मिन् नगरे महान् कथय कः तालद्रुमाणां गणः को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि । को दक्षः परवित्तदारहरणे सर्वेऽपि दक्षाः स्वयम् कस्माज्जीवसि हे सखे विषकृमिन्यायेन जीवाम्यहम् ॥

कश्चन यात्रिकः कञ्चित् ग्रामं प्राप्य अपृच्छत् - 'मित्र ! अस्मिन् ग्रामे महान् कः अस्ति ?' ग्रामीणः अवदत् - 'महान्तः अत्र बहवः । तालद्रुमाणां गणः एव अस्ति । तत्रत्याः सर्वे वृक्षाः महान्तः (उन्नताः) एव' इति । 'दाता कः अस्ति ?' - यात्रिकः अपृच्छत् । 'रजकः । सः प्रातः वस्त्रं नीत्वा सायं ददाति' इति अवदत् ग्रामीणः । 'अत्र दक्षः कः ?' - यात्रिकः अपृच्छत् । 'अन्येषां धनस्य पत्न्याः च हरणे सर्वे अपि दक्षाः एव' - इति ग्रामीणः अवदत् । 'एतादृशे कुत्सिते ग्रामे कथं वासः क्रियते भवता ?' इति अपृच्छत् यात्रिकः । 'विषकृमिन्यायेन जीवामि । विषे स्थितः कृमिः आदौ कष्टम् अनुभवति चेदपि गच्छता कालेन अभ्यस्तविषवासः सः तत्रैव सुखेन जीवति । तद्वद् अहम् अपि जीवामि' इति विषादेन उक्तवान् ग्रामीणः ।



टीका विरुद्धा मूलस्य गौरवं वहति प्रथाम् । स टीकार्थो यदि पृथक् ग्रन्थे कर्षति नो दृशम् ॥ - आत्रेयलघुलेखमाला

केनचित् शास्त्रकारेण यः मूलग्रन्थः लिख्येत तं विरुध्य यदि कश्चित् टीकां लिखेत् तर्हि सः महतीं प्रसिद्धिम् आप्नुयात् । सः एव मूलकारस्य आशयं विवृण्वन् महाकारकं टीकाग्रन्थं यदि लिखेत् तर्हि अपि सः प्रसिद्धिं न प्राप्नुयात् । अल्पः अपि विरोधः प्रसिद्धये स्यात् । महान् अपि समर्थनप्रयासः अनादराय स्यात् । एषो हि लोकः !!


आनन्दबाष्परोमाञ्चाः यस्य स्वेच्छावशंवदाः । किं तस्य साधनैरन्यैः किङ्कराः सर्वपार्थिवाः ॥

इच्छानुगुणं यः आनन्दं बाष्पं रोमाञ्चं च प्रदर्शियितुं शक्नोति सः, भूमिपतीन् धनिकान् अधिकारिणः वा वशीकर्तुम् अन्यत् साधनं न अपेक्षते । पुरतः स्थितस्य मनः प्रसन्नं यथा स्यात् तथा आचरन्तः बहवः अद्यापि स्वस्य इष्टं साधयन्ति एव । इष्टसाधनम् एव यस्य उद्देशः, सः किं किं न कुर्यात् ?


मौनं कालविलम्बश्च प्रयाणं भूमिदर्शनम् । भ्रुकुटिश्चान्यवार्ता च नकारः षड्विधः स्मृतः ॥

कश्चित् धनं साहाय्यं वा यदा याचते परिश्रमकार्यं सदा सूच्यते, असम्मतं किमपि वा यदा उच्यते तदा निराकृतिः दर्शनीया भवति । प्रत्यक्षतया निराकृतिदर्शनं कदाचित् अप्रियतायै अगौरवाय च भवति । एतादृशेषु प्रसङ्गेषु निषेधप्रदर्शनाय अत्र सन्ति षड् उपायाः । मौनस्य अवलम्बनं, 'श्वः पश्याम' इति कथनं, ततः उत्थाय गमनं, मुखम् अधः कृत्वा उपवेशनं, भ्रुवोः वक्रतासम्पादनम्, अन्यस्य विषयस्य उपस्थापनम् इत्येते एव ते षड् उपायाः ।


लिप्समानेषु वैद्येषु चिरादासाद्य रोगिणम् । दायादाः सम्प्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥

चिरकालानन्तरं रोगी यदि प्राप्येत तर्हि वैद्याः ततः प्रभूतं धनं स्वीकर्तुम् उपायान् चिन्तयन्ति । व्याधिग्रस्ततां वदन्तः महाव्ययसाध्यां चिकित्सां वदन्ति ते । एतस्य दर्शनात् असूयावन्तः दायादाः सन्तुष्टाः भवन्ति सहजतया एव । दैवज्ञमान्त्रिकादयः अपि सन्तुष्टाः भवन्ति - इतः परम् अयम् अचिरात् एव अस्मत्समीपम् आगच्छन् अस्मदीयायाः आयवृद्धेः कारणं भविष्यति इति ।


अद्याष्टमीति नवमीति चतुर्दशीति ज्योतिष्यवाचोपवसन्ति भक्त्या । अहो, श्रुतेस्तत्त्वमसीति वाक्यं न विश्वसन्तीत्यद्भुतमेतदेव ॥

'अद्य अष्टमी, अतः भोजनं न क्रियते' 'अद्य नवमी, अतः मम उपवासः' 'चतुर्दशीकारणतः उपवासः क्रियते मया' इत्यादीनि वचनानि बहुधा श्रूयन्ते लोके । तादृशेषु दिनेषु उपवासस्य आचरणात् पुण्यम् इति ज्योतिषिकैः यत् उक्तं तत्र विश्वसन्तः जनाः एवं व्यवहरन्ति । किन्तु, 'तत्त्वमसि'प्रभृतिषु वाक्येषु जनाः विश्वासं न कुर्वन्ति । बाह्याचरणे अधिकश्रद्धा, तत्त्वे अश्रद्धा च लोकस्य स्वभावः भवति प्रायः ।


मृता मोहमयी माता जातो ज्ञानमयः सुतः । आशौचं वर्तते नित्यं कथं सन्ध्यामुपास्महे ॥

कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - 'किं भवान् सन्ध्यावन्दनं न करोति ?' इति । 'मम आशौचम्' इति अवदत् सः वटुः । 'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?' इति अपृच्छत् मित्रम् । 'अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया' इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?